अद्यत्वे तु दूरदर्शने धार्मिककार्यक्रमाणाम् एतावान् अतिरेकः जातः अस्ति यत् शयनसमये पादौ दूरदर्शनसञ्चस्य दिशि प्रसारयितुं धार्ष्ट्यमेव न भवति, शापितः तु न भविष्यामि इति भीत्या
😀😀😀

स्वयम्प्रचोदनप्रणाल्याः (self start) योजनेन तु अधुना चपेटाप्रहारेण अधः पतन्तः कृशयष्टयः जनाः अपि स्थूलकायं बुलैटयानं चालयन्तः उपश्लाघां प्रदर्शयन्ति
😀😀😀

भग्नं प्रेम पुनः लभेत किन्तु चोरितं यानमार्जनवस्त्रं तु न कदापि लभेत। अहो जघन्यं चौर्यम्।
😀😀😀

जङ्गमदूरवाणिसञ्चोपयोगस्य एतावता अतिरेकं भूतमस्ति, ह्यः प्रतिवेशिनि आसन्दे उपविष्टः एकः सहसैव वृत्तपत्रस्थं चित्रं द्वाभ्याम् अङ्गुलीभ्यां नुत्त्वा उपसर्पणं (zoom in)कर्तुम् उद्यतः।
😀😀😀

यः भवते इच्छिते समये तमाखुं यच्छति तं कदापि मा पीडयतु।
😀😀😀

उपवेशने वरिष्ठेनोक्ते विनोदे यस्य हास्यरवः उच्चतमः अस्ति, ज्ञातव्यं यत् तस्य मासिकऋणार्पणराशिः (EMI) सर्वाधिकास्ति
😀😀😀