पतिपत्न्योः मध्ये सञ्जाताः परिहासपूर्णाः प्रसङ्गाः --

१) पत्नी - अहं द्विषामि त्वाम्।
पतिः - अहो महान् संयोगः।

२) एकदा पतिः पत्न्याः छायाचित्राणि ग्राहितवान्, स्वयं "वन्यजीवछायाचित्रकारः" इति प्रकीर्तितवान्।

३) एका कुशला पत्नी पतिवर्यं लिखितवती :-
अहं सखीभिः सह रात्रिभोजनार्थं गतवती अस्मि। भवतः भोजनं पाककृतिपुस्तकस्य 25 तमे पृष्ठे अस्ति । अखिला सामग्री रिलायंसफ्रेश् इत्यत्र उपलब्धा अस्ति ।

४) पत्नी - हे प्रिय, आवां आगामिनौ शनिवासररविवासरौ महदानन्दे यापयावः।
पतिः - शोभना कल्पना इयम्। आवाम् सोमवासरे एव मिलावः।

५) एकः उच्चपदधारी स्वमित्रं विषादं प्रकटन् उक्तवान्, "कीदृक् युगमेतत्। मम स्वीयकार्यदर्शिणी ह्यः पदत्यागं कृतवती।"
मित्रम् - किमर्थम्?
उच्चपदधारी - सा मां पत्न्या सह काफीआपणे दृष्टवती।