"आधुनिकवैद्यः"

सान्तासिंहस्य पादः नीलवर्णः जातः। भयेन सः वैद्यं दर्शयितुं गतवान्।

वैद्यः -- भोः भवतः पादः विषलिप्तः जातः शीघ्रमेव पादस्य छेदनम् करणीयम् अन्यथा जीवहानिर्भवति।

शस्त्रक्रिया जाता अधुना सान्तसिंहः एकपादेन चलति।

दिनानि अतीतानि पुनः तस्य अपरः पादः नीलवर्णः जातः झटिति सः वैद्यालयं गतवान्।

वैद्यः -- अहो! तस्य विषस्य प्रभावः अधुनापि भवतः शरीरे वर्तते शीघ्रमेव अस्य पादस्य छेदनमपि कुर्मः अन्यथा मरणमेव।

पुनः शस्त्रक्रिया जाता अधुना सान्ता पादहीनः कृत्रिमपादयोः सहाय्येन चलति सः।।

एकमासाभ्यन्तरे पुनः सान्तासिंहेण कृत्रिमपादयोः उपरि नीलवर्णस्य प्रभावः दृष्टः। वैद्यालयं गत्वा पुनः तमेव वैद्यं दर्शितवान्।।

तदा वैद्यः सम्यक् दृष्ट्वा उक्तवान् -- अहो!!! अधुनाहं सम्यक् अवगतवान् यत् नीलवर्णः भवतः चित्रवेष्टितः (Lungi )आगतः विषस्यप्रभावः नासीत् चिन्ता मास्तु गच्छतु इति!!