"नववर्ष-गीतिका"
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर
नववर्षम्,
शुभं भवतु नववर्षम्,
सौख्यमयंनिरामयंवितरतु परमं हर्षम् ।
शुभं भवतु नववर्षम्,
नववर्षम्, नववर्षम् ॥(ध्रुवम्)
हृदय-मन्दिरे प्रेम-ज्योति-र्विराजताम्,
मनोऽरविन्दं विन्दतु विमलं सुन्दरताम् ।
सुचिन्तनं चिरन्तनंहरतु विषाद-विमर्षम् ।
शुभं भवतु नववर्षम् ॥ (१)
प्रसरतु सत्कवि-भावुक-विकसित-सुप्रतिभा,
अम्बर-तलेऽपि सम्बल-विलसित-दिव्य-विभा ।
साभ्युदयं वराभयंतनोतु सकलोत्कर्षम् ।
शुभं भवतु नववर्षम् ॥ (२)
प्रदिशतु दिशि दिशि मधु-सन्देशं सुमञ्जुलम्,
शकुन्त-गीतं सकुसुम-फल-तरु-लता-कुलम् ।
अनाविलं शुचि सलिलंशमयतु जगतां तर्षम् ।
शुभं भवतु नववर्षम् ॥ (३)
परिमल-मरुतो रमयतु मर्त्त्यं चराचरम्,
दूषण-रहितो वातु सर्वतो नितन्तरम् ।
समुज्ज्वले विश्व-तलेतिरयतु कलुषामर्षम् ।
शुभं भवतु नववर्षम् ॥ (४)
धृत-पर्जन्या रमतां धन्या वसुन्धरा,
प्रशस्य-शस्या वन्य-वैभवै रत्नभरा ।
फलत्वलं समङ्गलंदृढ़मैक्यं दुर्धर्षम् ।
शुभं भवतु नववर्षम् ॥ (५)
शान्ति-पेशलं ज्ञान-कौशलं शोकहरम्,
प्रभवतु भुवने जन-हित-साधन-कर्मकरम् ।
व्रतं परं परस्परंनिवारयतु सङ्घर्षम् ।
शुभं भवतु नववर्षम् ॥ (६)
सन्नय-मार्गे प्रसन्न-भाग्ये स्व-निर्भरम्,
राष्ट्रिय-संहति-मन्त्रोद्गाने पुण्यभरम् ।
रुचि-रुचिरं जयतु चिरंसुरभित-भारतवर्षम् ।
शुभं भवतु नववर्षम् ।
नववर्षम्, नववर्षम् ॥ (७)
(इयं गीतिका कहरवा-ताल-मध्य-लयेन परिवेषणीया ।)